युक्तवाचिनि च समासे पूर्वपदम् आद्युदात्तम् भवति। गोबल्लवः। अश्वबल्लवः। गोमणिन्दः। अश्वमणिनदः। गोसङ्ख्यः। अश्वसङ्ख्यः। युक्तः इति समाहितः, कर्तव्ये तत्परो यः स उच्यते।
युक्तः=समाहितः, कार्ये तत्पर इत्युच्यते। "गोबल्लवः" इति। अधिकारनाम, सोऽस्यास्तीति "वप्रकरणेऽन्येभ्योऽपि दृश्यते (वा।५८०) इति वप्रत्ययः, गवां बल्लव इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्ते पूर्वपदाद्युदात्तत्वं विधीयते। "गोमणिन्दः" इति। मणिं ददातीति "आतोऽनुपसर्गे कः"
३।२।३, "तत्पुरुषे कृति बहुलम्()"
६।३।१३ इति विभ्क्तेरलुक्(), ततो गवां मणिन्द इति षष्ठीसमासः। अत्रापि समासस्वर एव प्राप्तेऽयं विधिः। "गोसंख्यः" इति। गां सञ्चष्ट इति "समि ख्यः"
३।२।७ इति कः, उपपदसमासः "गतिकारकोपपदात्()" (६।२।
१३९) इति कृत्स्वरे प्राप्ते पूर्वपदस्योदात्तार्थमिहापि वचनम्()! ननु च परत्वात्? थाथादिस्वरः
६।२।१४३ प्राप्नोति, तस्माद्गोबल्लवादौ कथमिदं वचनमिति, युक्तस्वरं कृत्सवर एव बाधेत?
एवं तर्हि पूर्वविप्रतिषेधो वक्तव्यः; परशब्दस्येष्टवाचित्वात्()।
गोबल्लव इत्येवमादयः समासाः सर्वे युक्तवाचिन इति दर्शयन्नाह--"युक्त इति समाहितः" इत्यादि। अनेन "युज समाधौ" (धा।प।११७७) इत्यस्य निष्ठायां युक्त इत्येतद्दर्शयति॥